|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.128. अध्यायः 128
Mahabharata - Vana Parva - Chapter Topics
सोमकनामकेन राज्ञा भार्याशतोद्बाहेपि ज्येष्ठायामेव जन्तुनामकैकापत्यजननम् ॥ 1 ॥ पिपीलिकादष्टसुतदुःखदर्शननिर्विण्णेन तेन राज्ञा ऋत्विजंप्रति बहुपुत्रोत्पादनोपायप्रश्नः ॥ 2 ॥ ऋत्विजा राजानंप्रति जन्तोः पशूकरणेन होमे तद्वपाघ्राणनेन भार्याशते पुत्रशतजननोक्तिः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-128-0x(2116)(20843)
कथंवीर्यः स राजाऽभूत्सोमको ददतांवरः।
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥ 3-128-1(20844)
लोमश उवाच। 3-128-2x(2117)
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः।
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥ 3-128-2(20845)
स वै यत्नेन महता तासु पुत्रं महीपतिः।
कंचिन्नासादयामास कालेन महता ह्यपि ॥ 3-128-3(20846)
कदाचित्तस् वृद्धस्य यतमानस्य धीमतः।
जन्तुर्नाम सुतस्तस्य ज्येष्ठायां समजायत ॥ 3-128-4(20847)
तं जातं मातरः सर्वाः परिवार्य समासते।
सततं पृष्ठतः कृत्वा कामभोगान्विशांपते ॥ 3-128-5(20848)
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिचि।
स दष्टो ह्यरुदद्राजंस्तेन दुःखेन बालकः ॥ 3-128-6(20849)
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः।
प्रवार्य जनतुं सहसा स शब्दस्तुमुलोऽभवत् ॥ 3-128-7(20850)
तमार्तनादं सहसा शुश्राव स महीपतिः।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥ 3-128-8(20851)
ततः प्रस्थापयामास किमेतदिति पार्थिवः।
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥ 3-128-9(20852)
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः।
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥ 3-128-10(20853)
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः।
ऋत्विजा सहितो राजन्सहामात्य उपाविशत् ॥ 3-128-11(20854)
सोमक उवाच। 3-128-12x(2118)
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥ 3-128-12(20855)
इदं भार्याशतं ब्रह्मन्परीक्ष्यसदृशं प्रभो।
पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा ॥ 3-128-13(20856)
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम।
यतमानासु सर्वासु किंनु दुःखमतः परम् ॥ 3-128-14(20857)
वयश्च समतीतं मे सभार्यस्यं द्विजोत्तम।
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥ 3-128-15(20858)
स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत्।
महता लघुना वाऽपि कर्मणा दुष्करेण वा ॥ 3-128-16(20859)
ऋत्विगुवाच। 3-128-17x(2119)
अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्।
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥ 3-128-17(20860)
सोमक उवाच। 3-128-18x(2120)
कार्यं वा यदि वाऽकार्यं येन पुत्रशतं भवेत्।
कृतमेवेति तद्विद्धि भगवान्प्रब्रवीतु मे ॥ 3-128-18(20861)
ऋत्विगुवाच। 3-128-19x(2121)
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ।
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ 3-128-19(20862)
वपार्या हूयमानायां धूममाघ्राय मातरः।
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥ 3-128-20(20863)
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः।
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ 3-128-21(20864)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-128-6 स्फिचि कठ्याम् ॥ 3-128-8 अमात्यपर्षदो मध्ये मन्त्रिसभान्तः ॥ 3-128-9 क्षत्ता दौवारिकः ॥ 3-128-19 जन्तुना पशुभूतेन ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|